Jatland Forums  

Go Back   Jatland Forums > Jatland Wiki

Notices

किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४-४३॥

From Jatland Wiki

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४-४३॥

ततः संदिश्य सुग्रीवः श्वशुरम् पश्चिमाम् दिशम् ।
वीरम् शतबलिम् नाम वानरम् वानररेश्वर ॥४-४३-१॥

उवाच राजा सर्वज्ञः सर्व वानर सत्तम ।
वाक्यम् आत्म हितम् चैव रामस्य च हितम् तदा ॥४-४३-२॥

वृतः शत सहस्रेण त्वत् विधानाम् वन ओकसाम् ।
वैवस्वत सुतैः सार्धम् प्रविष्ठ सर्व मंत्रिभिः ॥४-४३-३॥

दिशम् हि उदीचीम् विक्रान्त हिम शैल अवतंसिकाम् ।
सर्वतः परिमार्गध्वम् राम पत्नीम् यशस्विनीम् ॥४-४३-४॥

अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये ।
ऋणान् मुक्ता भविष्यामः कृत अर्था अर्थविदाम् वराः ॥४-४३-५॥

कृतम् हि प्रियम् अस्माकम् राघवेण महात्मना ।
तस्य चेत् प्रतिकारो अस्ति सफलम् जीवितम् भवेत् ॥४-४३-६॥

अर्थिनः कार्य निर्वृत्तिम् अकर्तुम् अपि यः चरेत् ।
तस्य स्यात् सफलम् जन्म किम् पुनः पूर्व कारिणः ॥४-४३-७॥

एताम् बुद्धिम् समास्थाय दृश्यते जानकी यथा ।
तथा भवद्भिः कर्तव्यम् अस्मत् प्रिय हित एषिभिः ॥४-४३-८॥

अयम् हि सर्व भूतानाम् मान्यः तु नर सत्तमः ।
अस्मासु च गतः प्रीतिम् रामः पर पुरम् जयः ॥४-४३-९॥

इमानि बहु दुर्गाणि नद्यः शैल अंतराणि च ।
भवन्तः परिमार्गन्तु बुद्धि विक्रम संपदा ॥४-४३-१०॥

तत्र म्लेच्छान् पुलिन्दान्शूरसेनान् तथैव च ।
प्रस्थालान् भरतान् चैव कुरूम् च सह मद्रकैः ॥४-४३-११॥
कांबोज यवनान् चैव शकान् पत्तनानि च ।
अन्वीक्ष्य दरदान् चैव हिमवन्तम् विचिन्वथ ॥४-४३-१२॥

लोध्र पद्मक खण्डेषु देवदारु वनेषु च ।
रावणः सह वैदेह्या मार्गितव्या ततः ततः ॥४-४३-१३॥

ततः सोम आश्रमम् गत्वा देव गन्धर्व सेवितम् ।
कालम् नाम महासानुम् पर्वतम् तम् गमिष्यथ ॥४-४३-१४॥

महत्सु तस्य शैलेषु पर्वतेषु गुहासु च ।
विचिन्वत महाभागाम् राम पत्नीम् अनिन्दिताम् ॥४-४३-१५॥

तम् अतिक्रम्य शैलेन्द्रम् हेम गर्भम् महागिरिम् ।
ततः सुदर्शनम् नाम पर्वतम् गन्तुम् अर्हथ ॥४-४३-१६॥

ततो देवसखो नाम पर्वतः पतग आलय ।
नाना पक्षि समाकीर्णो विविध द्रुम भूषितः ॥४-४३-१७॥

तस्य कानन खण्डेषु निर्झरेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४३-१८॥

तम् अतिक्रम्य च आकाशम् सर्वतः शत योजनम् ।
अपर्वत नदी वृक्षम् सर्व सत्त्व विवर्जितम् ॥४-४३-१९॥

तत् तु शीघ्रम् अतिक्रम्य कांतारम् रोम हर्षणम् ।
कैलासम् पाण्डुरम् प्राप्य हृष्टा यूयम् भविष्यथ ॥४-४३-२०॥

तत्र पाण्डुर मेघाभम् जाम्बूनद परिष्कृतम् ।
कुबेर भवनम् रम्यम् निर्मितम् विश्वकर्मणा ॥४-४३-२१॥

विशाला नलिनी यत्र प्रभूत कमलोत्पला ।
हंस कारण्डव आकीर्णा अप्सरो गण सेविता ॥४-४३-२२॥

तत्र वैश्रवणो राजा सर्व भूत नमस्कृतः ।
धनदो रमते श्रीमान् गुह्यकैः सह यक्ष राट् ॥४-४३-२३॥

तस्य चन्द्र निकशेषु पर्वतेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४३-२४॥

क्रौन्चम् तु गिरिम् आसाद्य बिलम् तस्य सुदुर्गमम् ।
अप्रमत्तैः प्रवेष्टव्यम् दुष्प्रवेशम् हि तत् स्मृतम् ॥४-४३-२५॥

वसन्ति हि महात्मानः तत्र सूर्य सम प्रभाः ।
देवैः अभ्यर्थिताः सम्यक् देव रूपा महर्षयः ॥४-४३-२६॥

क्रौन्चस्य तु गुहाः च अन्याः सानूनि शिखराणि च ।
निर्दराः च नितंबाः च विचेतव्याः ततः ततः ॥४-४३-२७॥

अवृक्षम् काम शैलम् च मानसम् विहग आलयम् ।
न गतिः तत्र भूतानाम् देवानाम् न च रक्षसाम् ॥४-४३-२८॥

स च सर्वैः विचेतव्यः स सानु प्रस्थ भूधरः ।
क्रौन्चम् गिरिम् अतिक्रम्य मैनाको नाम पर्वतः ॥४-४३-२९॥

मयस्य भवनम् तत्र दानवस्य स्वयम् कृतम् ।
मैनाकः तु विचेतव्यः स सानु प्रस्थ कंदरः ॥४-४३-३०॥
स्त्रीणाम् अश्व मुखीनाम् च निकेताः तत्र तत्र तु ।

तम् देशम् समतिक्रम्य आश्रमम् सिद्ध सेवितम् ॥४-४३-३१॥
सिद्धा वैखानसाः तत्र वालखिल्याः च तापसाः ।

वन्दितव्याः ततः सिद्धाः तापसा वीत कल्मषाः ॥४-४३-३२॥
प्रष्टव्याः च अपि सीतायाः प्रवृत्तिम् विनय अन्वितैः ।

हेम पुष्कर संछन्नम् तत्र वैखानसम् सरः ॥४-४३-३३॥
तरुण आदित्य संकाशैः हंसैः विचरितम् शुभैः ।

औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः ॥४-४३-३४॥
गजः पर्येति तम् देशम् सदा सह करेणुभिः ।

तत् सारः समतिक्रम्य नष्ट चन्द्र दिवाकरम् ।
अनक्षत्र गणम् व्योम निष्पयोदम् अनाअदितम् ॥४-४३-३५॥

गभस्तिभिः इव अर्कस्य स तु देशः प्रकाशते ।
विश्राम्यद्भिः तपः सिद्धैः देव कल्पैः स्वयंप्रभैः ॥४-४३-३६॥

तम् तु देशम् अतिक्रम्य शैलोदा नाम निम्नगा ।
उभयोः तीरयोः तस्याः कीचका नाम वेणवः ॥४-४३-३७॥
ते नयंति परम् तीरम् सिद्धान् प्रत्यानयन्ति च ।

उत्तराः कुरवः तत्र कृत पुण्य प्रतिश्रियाः ॥४-४३-३८॥
ततः कांचन पद्माभिः पद्मिनीभिः कृतोदकाः ।
नील वैदूर्य पत्राढ्या नद्यः तत्र सहस्रशः ॥४-४३-३९॥
रक्तोत्पल वनैः च अत्र मण्डिताः च हिरण्मयैः ।

तरुण आदित्य संकाशा भान्ति तत्र जलाशयाः ॥४-४३-४०॥
महाअर्ह मणि पत्रैः च कांचन प्रभ केसरैः ।
नीलोत्पल वनैः चित्रैः स देशः सर्वतो वृतः ॥४-४३-४१॥

निस्तुलाभिः च मुक्ताभिः मणिभिः च महाधनैः ।
उद्भूत पुलिनाः तत्र जातरूपैः च निम्नगाः ॥४-४३-४२॥

सर्व रत्नमयैः चित्रैः अवगाढा नगोत्तमैः ।
जातरूपमयैः च अपि हुताशन सम प्रभैः ॥४-४३-४३॥

नित्य पुष्प फलाः तत्र नगाः पत्ररथ आकुलाः ।
दिव्य गन्ध रस स्पर्शाः सर्व कामान् स्रवन्ति च ॥४-४३-४४॥
नाना आकाराणि वासांसि फलन्ति अन्ये नगोत्तमाः ।

मुक्ता वैदूर्य चित्राणि भूषणानि तथैव च ।
स्त्रीणाम् यानि अनुरूपाणि पुरुषाणाम् तथैव च ॥४-४३-४५॥
सर्व ऋतु सुख सेव्यानि फलन्ति अन्ये नगोत्तमाः ।
महा अर्हाणि मणि चित्राणि फलन्ति अन्ये नगोत्तमाः ॥४-४३-४६॥

शयनानि प्रसूयन्ते चित्र आस्तारणवन्ति च ।
मनः कान्तानि माल्यानि फलन्ति अत्र अपरे द्रुमाः ॥४-४३-४७॥
पानानि च महा अर्हाणि भक्ष्याणि विविधानि च ।

स्त्रियः च गुण संपन्ना रूप यौवन लक्षिताः ॥४-४३-४८॥
गन्धर्वाः किंनरा सिद्धा नागा विद्याधराः तथा ।
रमन्ते सहिताः तत्र नारीभिः भास्वर प्रभाः ॥४-४३-४९॥

सर्वे सुकृत कर्माणः सर्वे रति परायणाः ।
सर्वे काम अर्थ सहिता वसंति सह योषितः ॥४-४३-५०॥

गीत वादित्र निर्घोषः स उत्कृष्ट हसित स्वनः ।
श्रूयते सततम् तत्र सर्व भूत मनोरमः ॥४-४३-५१॥

तत्र न अमुदितः कश्चिन् न अत्र कश्चित् असत् प्रियः ।
अहनि अहनि वर्धन्ते गुणाः तत्र मनोरमाः ॥४-४३-५२॥

तम् अतिक्रम्य शैलेन्द्रम् उत्तरः पय्साम् निधिः ।
तत्र सोम गिरिर् नाम मध्ये हेममयो महान् ॥४-४३-५३॥

इन्द्र लोक गता ये च ब्रह्म लोक गताः च ये ।
देवाः तम् समवेक्षन्ते गिरि राजम् दिवम् गताः ॥४-४३-५४॥

स तु देशो विसूर्यो अपि तस्य भासा प्रकाशते ।
सूर्य लक्ष्म्या अभिविज्ञेयः तपता इव विवस्वता ॥४-४३-५५॥

भगवान् तत्र विश्वात्मा शम्भुः एकादश आत्मकः ।
ब्रह्मा वसति देवेशो ब्रह्म ऋषि परिवारितः ॥४-४३-५६॥

न कथंचन गंतव्यम् कुरूणाम् उत्तरेण वः ।
अन्येषाम् अपि भूतानाम् न अनुक्रामति वै गतिः ॥४-४३-५७॥

सा हि सोम गिरिः नाम देवानाम् अपि दुर्गमः ।
तम् आलोक्य ततः क्षिप्रम् उपावर्तितुम् अर्हथ ॥४-४३-५८॥

एतावत् वानरैः शक्यम् गंतुम् वानर पुंगवाः ।
अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४३-५९॥

सर्वम् एतत् विचेतव्यम् यन् मया परिकीर्तितम् ।
यत् अन्यत् अपि न उक्तम् च तत्र अपि क्रियताम् मतिः ॥४-४३-६०॥

ततः कृतम् दाशरथेः महत् प्रियम्
महत्तरम् च अपि ततो मम प्रियम् ।
कृतम् भविष्यति अनिलोअनलोउपमा
विदेहजा दर्शनजेन कर्मणा ॥४-४३-६१॥

ततः कृतार्थाः सहिताः सबान्धवा
मया अर्चिताः सर्व गुणैः मनो रमैः ।
चरिष्यथ उर्वीम् प्रतिशान्त शत्रवाअः
सह प्रिया भूत धराः प्लवंगमाः ॥४-४३-६२॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४-४३॥

Sarg 43 in English

Sarg 43 - Directions to Northward Party

Now Sugriva came to Shatbali and said - "Hey Soorya Putra, You go to north, to Himaalaya, with 100,000 Vanar and the son of Yam Raaj. If you succeeded in Rama's work then we will be free from His obligation. Our duty is that even if somebody has not done anything for us and he has come to us, and he has some wish to be fulfilled then we should certainly fulfill it. And if somebody has done something for us, his wish should be fulfilled considering it as our Dharm. So you should search for Seetaa sincerely, because Raam is respectable to us and does good to everybody. The rivers and mountains may be impassable to you.

First you go to the provinces of Mlechchha's, Pulinda's, Shoorsena's: Prasthala, Bharata, and Kuru; and also Madrak Desh and near them, Kaamboj, and Yavana, and Shaka and Darad Desh. Then you go to to Himvaan Parvat and Lodhra, Devadaar, Padmak and sandal Van to search Raavan. Then go to Som Aashram where Devtaa and Gandharva live on the very high peak of Kaal Parvat. Near it is Sudarshan Parvat, you go there also. Then you will see Devsakhaa Parvat where bird community lives.

After leaving Devsakhaa Parvat, you will see a flat land - about 100 Yojan long - where nobody lives, nor there are any trees, no mountains, no rivers etc. But after crossing this you will see Kailaash Parvat. You will be happy to see it. Vishwakarmaa has built a gold palace here for Kuber. Kuber lives there with Guhyak (Yaksha). There is a huge pond near this palace. It is beautified with various types of lotus flowers and swans. Apsaraa adore that place. So search this place also for Raavan and Vaidehee.

Enter the caves of Kraunch Giri (Parvat) [the birth place of Kartikeya: the son of Shiv-Paarvatee and Gangaa carefully because it is very difficult to go here. There live gracious Mahaatmaa (sages). They are like Devtaa. Even then you search for them here.

Although there is no tree on Kaam Parvat, and only birds live on Maanas Parvat, and nobody else then Devtaa and Asur can go there, still you will search for them there. Further to this you will see Mainaak Parvat. Maya Daanav has his dwelling place there. This is the dwelling place of horse-faced females, namely Kimpurusha.

On crossing this you will come to a place where live many Tapaswee, Siddh, Vaikhaanas, and Baalkhilya. You greet them and ask them about Seetaa. There is a Vaikhaanas Lake also which is laden by golden lotuses. There you will see many swans and Kuber's elephant named Saarvbhaum. When that elephant goes over that lake, the whole sky becomes Moonless, quiet and cloudless.

After that you will come to Shailodaa River where there grow Keechak named bamboos on its both banks. These bamboos help Tapaswee to go from one bank to another bank of the river. Near this you will see Kuru Desh. Here you will see blue lotuses all around. There are many rivers there. The sand dunes of these rivers are of incomparable pearls and jewels. Endless are the birds there and eternal are the fruits and flowers of that mountain.

Other mountains also produce such materials which is apt for clothes for males and females. Very diversified food stuff grow there in Uttar Kuru Desh. Its females are also very pretty and beautiful. Sound of singing and playing musical instruments also echo there. Nobody looks unhappy there. Nobody does any bad Karm there.

Further to this, Hey Vanar, you will see the Northern sea, in the middle of which you will see gigantic golden Som Giri Parvat. All those who have gone to Indra's sphere and Brahmaa's sphere can always see it. Here there is no Sun, but it is illuminated by its own light. There live Cosmic-souled God Vishnu, Shambhoo (Ekaadash Rudra, means 11 Rudra) and the God of gods Brahmaa.

You cannot traverse beyond Kuru to north. Even others, like Daitya, Danava, Gandharava, Yaksha etc cannot go there although they have extra-ordinary capabilities. So you just do Darshan of that mountain and come back quickly. And I do not know the realms beyond this point. Search Seetaa in all the regions I have told you and in the regions which I have not told you also.

Please search Seetaa sincerely. When Rama's work will be done, I will give you many good things. You don't worry about anything. I will take care of your families and your all enemies will be dead. So they all went to north.


Back to < Ramayana < Kishkindha Kanda


All times are GMT +5.5. The time now is 09:27 PM.