![]() |
|
|||||||
| Notices |
|
|
Viewsबालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥From Jatland Wikiश्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥ततः प्रभाते विमले कृत आह्निकम् अरिन्दमौ । ते च सर्वे महात्मानो मुनयः संश्रित व्रताः । आरोहतु भवान् नावम् राजपुत्र पुरस्कृतः । विश्वामित्रः तथा इति उक्त्वा तान् ऋषीन् प्रतिपूज्य च । तत्र शुश्राव वै शब्दम् तोय संरम्भ वर्धितम् । ज्ञातु कामो महातेजा सह रामः कनीयसा । वारिणो भिद्यमानस्य किम् अयम् तुमुलो ध्वनिः । कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् । ब्रह्मणा नरशार्दूल तेन इदम् मानसम् सरः । सरः प्रवृत्ता सरयूः पुण्या ब्रह्म सरः च्युता । वारि संक्षोभजो राम प्रणामम् नियतः कुरु । तीरम् दक्षिणम् आसाद्य जग्मतुर् लघु विक्रमौ । अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनि पुंगवम् । भैरवैः श्वापदैः कीर्णम् शकुनैः दारुण आरवैः । सिंह व्याघ्र वराहैः च वारणैः च अपि शोभितम् । संकीर्णम् बदरीभिः च किम् नु एतत् दारुणम् वनम् । श्रूयताम् वत्स काकुत्स्थ यस्य एतत् दारुणम् वनम् । मलदाः च करूषाः च देव निर्माण निर्मितौ । क्षुधा चैव सहस्राक्षम् ब्रह्म हत्या सम् आविशत् । कलशैः स्नापयामासुः मलम् च अस्य प्रमोचयन् । शरीरजम् महेन्द्रस्य ततो हर्षम् प्रपेदिरे । ततो देशस्य सुप्रीतो वरम् प्रादाद् अनुत्तमम् । मलदाः च करूषाः च मम अंग मल धारिणौ । देशस्य पूजाम् ताम् दृष्ट्वा कृताम् शक्रेण धीमता । मलदाः च करूषाः च मुदिता धन धान्यतः । बलम् नाग सहस्रस्य धारयन्ती तदा हि आभूत् । मारीचो राक्षसः पुत्रो यस्याः शक्र पराक्रमः । राक्षसो भैरव आकारो नित्यम् त्रासयते प्रजाः । मलदांश्च करूषांश्च ताटका दुष्ट चारिणी । अत एव च गन्तव्यम् ताटकाया वनम् यतः । मत् नियोगात् इमम् देशम् कुरु निष्कण्टकम् पुनः । यक्षिण्या घोरया राम उत्सादितम् असह्यया । इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे चतुर् विंशः सर्गः ॥ Sarg 24 in EnglishSarg 24 - Raam Goes to Muni's Aashram - 1 Muni Vishwaamitra Jee took bath in Gangaa River next day and came to its other bank. When they were crossing the river, a terrible sound was heard. On asking, Vishwaamitra Jee said - "Brahma Jee has built a lake named "Maanas Sar" on Kailaash Parvat through His will [that is why it is called "Maanas Sar]. A stream, Sarasaa (Sarayoo), has come out of that lake and passes surrounding Ayodhya. The same stream is joining the Gangaa here. So this sound is of its joining the Gangaa. Then they arrived at the southern bank of Gangaa and started walking. On their way, Raam saw a horrible forest and said to Muni - "What is this forest? It seems that nobody has walked through this forest and many terrifying animals are making noise here." Vishwaamitra Jee said - "This forest was under two states before - Maladaa and Karooshaa. They were owned by Kutsth Vansh. Long ago, Indra got Brahm Hatyaa (killing of a Braahman) Paap (sin) because of killing Vritraasur. Rishi transferred that Paap to this piece of land by bathing Him by their Kamandal water. Pleased with this Indra gave it Var that "these two states will be very great, because this land has made me sinless. Then came here Taatakaa Raakshasee who had the strength of 1,000 elephants. She was the wife of Sund. She had a son named Maareech. Maareech had a huge mouth, long arms, huge body. He was the cause of destruction of these kingdoms. We will meet Taatakaa on our way. That place is half Kos far from here. You will kill her with my permission. Nobody comes here because of her." Back to Ramayana/ Bala Kanda |