Shalya Parva in Sanskrit

From Jatland Wiki

(Redirected from Mahabharata Shalya Parva)
Jump to: navigation, search

The Mahabharata in Sanskrit


The Mahabharata

Book 9: Shalya Parva

Chapter 44

Kisari Mohan Ganguli, tr.

[1883-1896]

Contents

Sanskrit text

Shloka 1-25

 1 [वै]
     ततॊ ऽभिषेका संभारान सर्वान संभृत्य शास्त्रतः
     बृहस्पतिः समिद्धे ऽगनौ जुहावाज्यं यदाविधि
 2 ततॊ हिमवता दत्ते मणिप्रवर शॊभिते
     दीव्य रत्नाचिते दिव्ये निषण्णः परमासने
 3 सर्वमङ्गल संभारैर विधिमन्त्रपुरस्कृतम
     आभिषेचनिकं दरव्यं गृहीत्वा देवता गणाः
 4 इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तदा
     धाता चैव विधाता च तदा चैवानिलानलौ
 5 पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता
     रुद्रश च सहितॊ धीमान मित्रेण वरुणेन च
 6 रुद्रैर वसुभिर आदित्यैर अश्विभ्यां च वृतः परभुः
     विश्वे देवैर मरुद्भिश च साध्यैश च पितृभिः सह
 7 गन्धर्वैर अप्सरॊभिश च यक्षराक्षस पन्नगैः
     देवर्षिभिर असंख्येयैस तदा बरह्मर्षिभिर वरैः
 8 वैखानसैर वालखिल्यैर वाय्वाहारैर मरीचिपैः
     भृगुभिश चाङ्गिरॊभिश च यतिभिश च महात्मभिः
     सर्वैर विद्याधरैः पुण्यैर यॊगसिद्धैस तदा वृतः
 9 पितामहः पुलस्त्यश च पुलहश च महातपाः
     अङ्गिराः कश्यपॊ ऽतरिश च मरीचिर भृगुर एव च
 10 ऋतुर हरः परचेताश च मनुर दक्षस तदैव च
    ऋतवश च गरहाश चैव जयॊतींषि च विशां पते
11 मूर्तिमत्यश च सरितॊ वेदाश चैव सनातनाः
    समुद्राश च हरदाश चैव तीर्दानि विविधानि च
    पृथिवी दयौर दिशश चैव पादपाश च जनाधिप
12 अदितिर देव माता च हरीः शरीः सवाहा सरस्वती
    उमा शची सिनीवाली तदा चानुमतिः कुहूः
    राका च धिषणा चैव पत्न्यश चान्या दिवौकसाम
13 हिमवांश चैव विन्ध्यश च मेरुश चानेक शृङ्गवान
    ऐरावतः सानुचरः कलाः काष्टास तदैव च
    मासार्ध मासा ऋतवस तदा रात्र्यहनी नृप
14 उच्चैःश्रवा हयश्रेष्ठॊ नागराजश च वामनः
    अरुणॊ गरुडश चैव वृक्षाश चौषधिभिः सह
15 धर्मश च भगवान देवः समाजग्मुर हि संगताः
    कालॊ यमश च मृत्युश च यमस्यानुचराश च ये
16 बहुलत्वाच च नॊक्ता ये विविधा देवता गणाः
    ते कुमाराभिषेकार्दं समाजग्मुस ततस ततः
17 जगृहुस ते तथा राजन सर्व एव दिवौकसः
    आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः
18 दिव्यसंभार संयुक्तैः कलशैः काञ्चनैर नृप
    सरस्वतीभिः पुण्याभिर दिव्यतॊयभिर एव तु
19 अभ्यषिञ्चन कुमारं वै संप्रहृष्टा थिवौकसः
    सेनापतिं महात्मानम असुराणां भयावहम
20 पुरा यदा महाराज वरुणं वै जलेश्वरम
    तदाभ्यषिञ्चथ भगवान बरह्मा लॊकपितामहः
    कश्यपश च महातेजा ये चान्ये नानुकीर्तिताः
21 तस्मै बरह्मा ददौ परीतॊ बलिनॊ वातरंहसः
    कामवीर्यधरान सिद्धान महापारिषदान परभुः
22 नन्दिषेणं लॊहिताक्षं घण्डा कर्णं च संमतम
    चतुर्दम अस्यानुचरं खयातं कुमुदमालिनम
23 ततः सदाणुं महावेगं महापारिषडं करतुम
    माया शतधरं कामं कामवीर्यबलान्वितम
    ददौ सकन्दाय राजेन्द्र सुरारिविनिबर्हणम
24 स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम
    जघान दॊर्भ्यां संक्रुद्धः परयुतानि चतुर्थश
25 तदा देव ददुस तस्मै सेनां नैरृतसांकुलाम
    देवशत्रुक्षयकरीम अजय्यां विश्वरूपिणीम

Shloka 26-50

26 जयशब्थं ततश चक्रुर थेवाः सर्वे सवासवाः
    गन्धर्वयक्षा रक्षांसि मुनयः पितरस तदा
27 यमः पराथाथ अनुचरौ यम कालॊपमाव उभौ
    उन्मादं च परमादं च महावीर्यौ महाथ्युती
28 सुभ्राजॊ भास्करश चैव यौ तौ सूर्यानुयायिनौ
    तौ सूर्यः कार्त्तिकेयाय थथौ परीतः परतापवान
29 कैलासशृङ्गसंकाशौ शवेतमाल्यानुलेपनौ
    सॊमॊ ऽपय अनुचरौ पराथान मणिं सुमणिम एव च
30 जवाला जिह्वं तदा जयॊतिर आत्मजाय हुताशनः
    थथाव अनुचरौ शूरौ परसैन्यप्रमादिनौ
31 परिघं च वटं चैव भीमं च सुमहाबलम
    थहतिं थहनं चैव परचण्डौ वीर्यसंमतौ
    अंशॊ ऽपय अनुचरान पञ्च थथौ सकन्थाय धीमते
32 उत्क्रॊशं पङ्कजं चैव वज्रथण्डधराव उभौ
    थथाव अनल पुत्राय वासवः परवीरहा
    तौ हि शत्रून महेन्थ्रस्य जघ्नतुः समरे बहून
33 चक्रं विक्रमकं चैव संक्रमं च महाबलम
    सकन्थाय तरीन अनुचरान थथौ विष्णुर महायशाः
34 वर्धनं नन्थनं चैव सर्वविथ्या विशारथौ
    सकन्थाय थथतुः परीताव अश्विनौ भरतर्षभ
35 कुन्थनं कुसुमं चैव कुमुथं च महायशाः
    डम्बराडम्बरौ चैव थथौ धाता महात्मने
36 वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलॊत्कटौ
    थथौ तवष्टा महामायौ सकन्थायानुचरौ वरौ
37 सुव्रतं सत्यसंधं च थथौ मित्रॊ महात्मने
    कुमाराय महात्मानौ तपॊ विथ्याधरौ परभुः
38 सुथर्शनीयौ वरथौ तरिषु लॊकेषु विश्रुतौ
    सुप्रभं च महात्मानं शुभकर्माणम एव च
    कार्त्तिकेयाय संप्राथाथ विधाता लॊकविश्रुतौ
39 पालितकं कालिकं च महामायाविनाव उभौ
    पूषा च पार्षथौ पराथात कार्त्तिकेयाय भारत
40 बलं चातिबलं चैव महावक्त्रौ महाबलौ
    परथथौ कार्त्तिकेयाय वायुर भरतसत्तम
41 घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ
    परथथौ कार्त्तिकेयाय वरुणः सत्यसंगरः
42 सुवर्च्चसं महात्मानं तदैवाप्य अतिवर्चसाम
    हिमवान परथथौ राजन हुताशनसुताय वै
43 काञ्चनं च महात्मानं मेघमालिनम एव च
    थथाव आनुचरौ मेरुर अग्निपुत्राय भारत
44 सदिरं चातिस्दिरं चैव मेरुर एवापरौ थथौ
    महात्मने ऽगनिपुत्राय महाबलपराक्रमौ
45 उच्छ्रितं चातिशृङ्गं च महापाषाण यॊधनौ
    परथथाव अग्निपुत्राय विन्ध्यः पारिषथाव उभौ
46 संग्रहं विग्रहं चैव समुथ्रॊ ऽपि गथाधरौ
    परथथाव अग्निपुत्राय महापारिषथाव उभौ
47 उन्माथं पुष्पथन्तं च शङ्कुकर्णं तदैव च
    परथथाव अग्निपुत्राय पार्वती शुभथर्शना
48 जयं महाजयं चैव नागौ जवलनसूनवे
    परथथौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः
49 एवं साख्याश च रुथ्राश च वसवः पितरस तदा
    सागराः सरितश चैव गिरयश च महाबलाः
50 थथुः सेनागणाध्यक्षाञ शूलपट्टिशधारिणः
    थिव्यप्रहरणॊपेतान नानावेषविभूषितान

Shloka 51-75

51 शृणु नामानि चान्येषां ये ऽनये सकन्दस्य सैनिकाः
    विविधायुधसंपन्नाश चित्राभरण वर्मिणः
52 शङ्कुकर्णॊ निकुम्भश च पद्मः कुमुद एव च
    अनन्तॊ द्वादश भुजस तदा कृष्णॊपकृष्णकौ
53 द्रॊण शरवाः कपिस्कन्धः काञ्चनाक्षॊ जलं धमः
    अक्षसंतर्जनॊ राजन कुनदीकस तमॊ ऽभरकृत
54 एकाक्षॊ द्वादशाक्षश च तदैवैक जटः परभुः
    सहस्रबाहुर विकटॊ वयाघ्राक्षः कषितिकम्पनः
55 पुण्यनामा सुनामा च सुवक्त्रः परियदर्शनः
    परिश्रुतः कॊक नदः परिय माल्यानुलेपनः
56 अजॊदरॊ गजशिराः सकन्धाक्षः शतलॊचनः
    जवाला जिह्वः करालश च सितकेशॊ जटी हरिः
57 चतुर्थंष्ट्रॊ ऽषट जिह्वश च मेघनाथः पृदुश्रवाः
    विथ्युथ अक्षॊ धनुर वक्त्रॊ जठरॊ मारुताशनः
58 उदराक्षॊ झषाक्षश च वज्रनाभॊ वसु परभः
    समुद्रवेगॊ राजेन्थ्र शैलकम्पी तदैव च
59 पुत्र मेषः परवाहश च तदा नन्दॊपनन्दकौ
    धूम्रः शवेतः कलिङ्गशसिद्धार्दॊ वरदस तदा
60 परियकश चैव नन्थशगॊनन्थश च परतापवान
    आनन्दश च परमॊदश च सवस्तिकॊ धरुवकस तदा
61 कषेमवापः सुजातश च सिद्धयात्रश च भारत
    गॊव्रजः कनकापीडॊ महापारिषदेश्वरः
62 गायनॊ हसनश चैव बाणः खड्गश च वीर्यवान
    वैताली चातिताली च तदा कतिक वातिकौ
63 हंसजः पङ्कदिग्धाङ्गः समुद्रॊन्मादनश च ह
    रणॊत्कटः परहासश च शवेतशीर्षश च नन्दकः
64 कालकण्ठः परभासश च तदा कुम्भाण्डकॊ ऽपरः
    कालकाक्षः सितश चैव भूतलॊन्मदनस तदा
65 यज्ञवाहः परवाहश च देव याजी च सॊमपः
    सजालश च महातेजाः करद करादौ च भारत
66 तुहनश च तुहानश च चित्रथेवश च वीर्यवान
    मधुरः सुप्रसादश च किरीटी च महाबलः
67 वसवॊ मधुवर्णशकलशॊदर एव च
    धमन्तॊ मन्मदकरः सूचीवक्त्रश च वीर्यवान
68 शवेतवक्त्रः सुवक्त्रश च चारु वक्त्रश च पाण्डुरः
    दण्डबाहुः सुबाहुश च रजः कॊकिलकस तदा
69 अचलः कनकाक्षशबालानाम अयिकः परभुः
    संचारकः कॊक नदॊ गृध्रवक्त्रश च जम्बुकः
70 लॊहाश वक्त्रॊ जठरः कुम्भवक्त्रश च कुण्डकः
    मद्गुग्रीवश च कृष्णौजा हंसवक्त्रश च चन्द्र भाः
71 पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश च शिक्षकः
    चाष वक्त्रश च जम्बूकः शाकवक्त्रश च कुण्डकः
72 यॊगयुक्ता महात्मानः सततं बराह्मण परियाः
    पैतामहा महात्मानॊ महापारिषथाश च ह
    यौवनस्दाश च बालाश च वृद्धाश च जनमेजय
73 सहस्रशः पारिषथाः कुमारम उपतस्दिरे
    वक्त्रैर नानाविधैर ये तु शृणु ताञ जनमेजय
74 कूर्मकुक्कुटवक्त्राश च शशॊलूक मुखास तदा
    खरॊष्ट्रवदनाश चैव वराहवदनास तदा
75 मनुष्यमेष वक्त्राश च सृगालवदनास तदा
    भीमा मकर वक्त्राश च शिशुमार मुखास तदा

Shloka 76-110

76 मार्जारशशवक्त्राश च दीर्घवक्त्राश च भारत
    नकुलॊलूक वत्राश च शववाक्त्राश च तदापरे
77 आखु बभ्रुक वक्त्रश च मयूरवदनास तदा
    मत्स्यमेषाननाश चान्ये अजावि महिषाननाः
78 ऋक्षशार्थूल वक्त्राश च थवीपिसिंहाननास तदा
    भीमा गजाननाश चैव तदा नक्रमुखाः परे
79 गरुडाननाः खड्गमुखा वृककाकमुखास तदा
    गॊखरॊष्ट्र मुखाश चान्ये वृषथंश मुखास तदा
80 महाजठर पादाङ्गास तारकाक्शाश च भारत
    पारावत मुखाश चान्ये तदा वृषमुखाः परे
81 कॊकिला वदनाश चान्ये शयेनतित्तिरिकाननाः
    कृकलास मुखाश चैव विरजॊऽमबरधारिणः
82 वयालवक्त्राः शूलमुखाश चण्डवक्त्राः शताननाः
    आशीविषाश चीरधरा गॊनासावरणास तदा
83 सदूलॊदराः कृशाङ्गाश च सदूलाङ्गश च कृशॊदराः
    हरस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः
84 गजेन्द्र चर्म वसनास तदा कृष्णाजिनाम्बराः
    सकन्धे मुखा महाराज तदा हय उदरतॊ मुखाः
85 पृष्ठे मुखा हनुमुखास तदा जङ्घा मुखा अपि
    पार्श्वाननाश च बहवॊ नानादेशमुखास तदा
86 तदा कीट पतंगानां सथृशास्या गणेश्वराः
    नानाव्यालमुखाश चान्ये बहु बाहुशिरॊ धराः
87 नानावृक्षभुजाः केच चित कटि शीर्षास तदापरे
    भुजंगभॊग वदना नानागुल्मनिवासिनः
88 चीरसंवृत गात्राश च तदा फलकवाससः
    नानावेषधराश चैव चर्म वासस एव च
89 उष्णीषिणॊ मुकुटिनः कम्बुग्रीवाः सुवर्चसः
    किरीटिनः पञ्च शिखास तदा कठिन मूर्धजाः
90 तरिशिठा दविशिखाश चैव तदा सप्त शिखाः परे
    शिखण्डिनॊ मुकुटिनॊ मुण्डाश च जटिलास तदा
91 चित्रमाल्यधराः केच चित केच चिथ रॊमाननास तदा
    दिव्यमाल्याम्बरधराः सततं परियविग्रहाः
92 कृष्णा निर्मांस वक्त्राश च दीर्घपृष्टा निरूदराः
    सदूलपृष्ठा हरस्वपृष्ठाः परलम्बॊदर मेहनाः
93 महाभुजा हरस्वभुजा हरस्वगात्रश च वामनाः
    कुब्जाश च दीर्घजङ्घाश च हस्तिकर्ण शिरॊधराः
94 हस्तिनासाः कूर्मनासा वृकनासास तदापरे
    दीर्घौष्ठा दीर्घजिह्वाश च विकराला हय अधॊमुखाः
95 महादंष्ट्रा हरस्वदंष्ट्राश चतुर्थंष्ट्रास तदापरे
    वारणेन्द्र निभाश चान्ये भीमा राजन सहस्रशः
96 सुविभक्तशरीराश च दीप्तिमन्तः सवलंकृताः
    पिङ्गाक्षाः शङ्कुकर्णाश च वक्रनासाश च भारत
97 पृदु दंष्ट्रामहा दंष्ट्राः सदूलौष्ठा हरि मूर्धजाः
    नाना पाथौष्ठ दंष्ट्राश च नाहा हस्तशिरॊ धराः
    नाना वर्मभिर आच्छन्ना नाना भाषाश च भारत
98 कुशला देशभाषासु जल्पन्तॊ ऽनयॊन्यम ईश्वराः
    हृष्टाः परिपतन्ति सम महापारिषदास तदा
99 दीर्घग्रीवा दीर्घनखदीर्घपादशिरॊ भुजाः
    पिङ्गाक्षा नीलकण्ठाश च लम्बकर्णाश च भारत
100 वृकॊदर निभाश चैव के चिद अञ्जनसंनिभाः
   शवेताङ्गा लॊहितग्रीवाः पिङ्गाक्षाश च तदापरे
   कल्माषा बहवॊ राजंश चित्रवर्णाश च भारत
101 चामरापीडक निभाः शवेतलॊहित राजयः
   नानावर्णाः सवर्णाश च मयूरसदृशप्रभाः
102 पुनः परहरणान्य एषां कीर्त्यमानानि मे शृणु
   शेषैः कृतं पारिषदैर आयुधानां परिग्रहम
103 पाशॊद्यत कराः के चिद वयादितास्याः खराननाः
   पृद्व अक्षा नीलकण्ठाश च तदा परिघबाहवः
104 शतघ्नी चक्रहस्ताश च तदा मुसलपाणयः
   शूलासिहस्ताश च तदा महाकाया महाबलाः
105 गदा भुशुण्डि हस्ताश च तदा तॊमरपाणयः
   असि मद्गरहस्ताश च दण्डहस्ताश च भारत
106 आयुधैर विविधैर घॊरैर महात्मानॊ महाजवाः
   महाबला महावेगा महापारिषदास तदा
107 अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः
   घण्टाजालपिनथ्धाङ्गा ननृतुस ते महौजसः
108 एते चान्ये च बहवॊ महापारिषदा नृप
   उपतस्दुर महात्मानं कार्त्तिकेयं यशस्विनम
109 थिव्याश चाप्य आन्तरिक्षाश च पार्दिवाश चानिलॊपमाः
   वयादिष्टा दैवतैः शूराः सकन्दस्यानुचराभवन
110 तादृशानां सहस्राणि परयुतान्य अर्बुदानि च
   अभिषिक्तं महात्मानं परिवार्यॊपतस्दिरे

English transliteration

Shloka 1-25

1  [vai]
     tato 'bhiṣekā saṃbhārān sarvān saṃbhṛtya śāstrataḥ
     bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi
 2 tato himavatā datte maṇipravara śobhite
     dīvya ratnācite divye niṣaṇṇaḥ paramāsane
 3 sarvamaṅgala saṃbhārair vidhimantrapuraskṛtam
     ābhiṣecanikaṃ dravyaṃ gṛhītvā devatā gaṇāḥ
 4 indrāviṣṇū mahāvīryau sūryācandramasau tathā
     dhātā caiva vidhātā ca tathā caivānilānalau
 5 pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā
     rudraś ca sahito dhīmān mitreṇa varuṇena ca
 6 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ
     viśve devair marudbhiś ca sādhyaiś ca pitṛbhiḥ saha
 7 gandharvair apsarobhiś ca yakṣarākṣasa pannagaiḥ
     devarṣibhir asaṃkhyeyais tathā brahmarṣibhir varaiḥ
 8 vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ
     bhṛgubhiś cāṅgirobhiś ca yatibhiś ca mahātmabhiḥ
     sarvair vidyādharaiḥ puṇyair yogasiddhais tathā vṛtaḥ
 9 pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ
     aṅgirāḥ kaśyapo 'triś ca marīcir bhṛgur eva ca
 10 ṛtur haraḥ pracetāś ca manur dakṣas tathaiva ca
    ṛtavaś ca grahāś caiva jyotīṃṣi ca viśāṃ pate
11 mūrtimatyaś ca sarito vedāś caiva sanātanāḥ
    samudrāś ca hradāś caiva tīrthāni vividhāni ca
    pṛthivī dyaur diśaś caiva pādapāś ca janādhipa
12 aditir deva mātā ca hrīḥ śrīḥ svāhā sarasvatī
    umā śacī sinīvālī tathā cānumatiḥ kuhūḥ
    rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām
13 himavāṃś caiva vindhyaś ca meruś cāneka śṛṅgavān
    airāvataḥ sānucaraḥ kalāḥ kāṣṭās tathaiva ca
    māsārdha māsā ṛtavas tathā rātryahanī nṛpa
14 uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ
    aruṇo garuḍaś caiva vṛkṣāś cauṣadhibhiḥ saha
15 dharmaś ca bhagavān devaḥ samājagmur hi saṃgatāḥ
    kālo yamaś ca mṛtyuś ca yamasyānucarāś ca ye
16 bahulatvāc ca noktā ye vividhā devatā gaṇāḥ
    te kumārābhiṣekārthaṃ samājagmus tatas tataḥ
17 jagṛhus te tadā rājan sarva eva divaukasaḥ
    ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ
18 divyasaṃbhāra saṃyuktaiḥ kalaśaiḥ kāñcanair nṛpa
    sarasvatībhiḥ puṇyābhir divyatoyabhir eva tu
19 abhyaṣiñcan kumāraṃ vai saṃprahṛṣṭā divaukasaḥ
    senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham
20 purā yathā mahārāja varuṇaṃ vai jaleśvaram
    tathābhyaṣiñcad bhagavān brahmā lokapitāmahaḥ
    kaśyapaś ca mahātejā ye cānye nānukīrtitāḥ
21 tasmai brahmā dadau prīto balino vātaraṃhasaḥ
    kāmavīryadharān siddhān mahāpāriṣadān prabhuḥ
22 nandiṣeṇaṃ lohitākṣaṃ ghaṇḍā karṇaṃ ca saṃmatam
    caturtham asyānucaraṃ khyātaṃ kumudamālinam
23 tataḥ sthāṇuṃ mahāvegaṃ mahāpāriṣaḍaṃ kratum
    māyā śatadharaṃ kāmaṃ kāmavīryabalānvitam
    dadau skandāya rājendra surārivinibarhaṇam
24 sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām
    jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa
25 tathā deva dadus tasmai senāṃ nairṛtasāṃkulām
    devaśatrukṣayakarīm ajayyāṃ viśvarūpiṇīm

Shloka 26-50

26 jayaśabdaṃ tataś cakrur devāḥ sarve savāsavāḥ
    gandharvayakṣā rakṣāṃsi munayaḥ pitaras tathā
27 yamaḥ prādād anucarau yama kālopamāv ubhau
    unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī
28 subhrājo bhāskaraś caiva yau tau sūryānuyāyinau
    tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān
29 kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau
    somo 'py anucarau prādān maṇiṃ sumaṇim eva ca
30 jvālā jihvaṃ tathā jyotir ātmajāya hutāśanaḥ
    dadāv anucarau śūrau parasainyapramāthinau
31 parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam
    dahatiṃ dahanaṃ caiva pracaṇḍau vīryasaṃmatau
    aṃśo 'py anucarān pañca dadau skandāya dhīmate
32 utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāv ubhau
    dadāv anala putrāya vāsavaḥ paravīrahā
    tau hi śatrūn mahendrasya jaghnatuḥ samare bahūn
33 cakraṃ vikramakaṃ caiva saṃkramaṃ ca mahābalam
    skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ
34 vardhanaṃ nandanaṃ caiva sarvavidyā viśāradau
    skandāya dadatuḥ prītāv aśvinau bharatarṣabha
35 kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ
    ḍambarāḍambarau caiva dadau dhātā mahātmane
36 vakrānuvakrau balinau meṣavaktrau balotkaṭau
    dadau tvaṣṭā mahāmāyau skandāyānucarau varau
37 suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane
    kumārāya mahātmānau tapo vidyādharau prabhuḥ
38 sudarśanīyau varadau triṣu lokeṣu viśrutau
    suprabhaṃ ca mahātmānaṃ śubhakarmāṇam eva ca
    kārttikeyāya saṃprādād vidhātā lokaviśrutau
39 pālitakaṃ kālikaṃ ca mahāmāyāvināv ubhau
    pūṣā ca pārṣadau prādāt kārttikeyāya bhārata
40 balaṃ cātibalaṃ caiva mahāvaktrau mahābalau
    pradadau kārttikeyāya vāyur bharatasattama
41 ghasaṃ cātighasaṃ caiva timivaktrau mahābalau
    pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ
42 suvarccasaṃ mahātmānaṃ tathaivāpy ativarcasām
    himavān pradadau rājan hutāśanasutāya vai
43 kāñcanaṃ ca mahātmānaṃ meghamālinam eva ca
    dadāv ānucarau merur agniputrāya bhārata
44 sthiraṃ cātisthiraṃ caiva merur evāparau dadau
    mahātmane 'gniputrāya mahābalaparākramau
45 ucchritaṃ cātiśṛṅgaṃ ca mahāpāṣāṇa yodhanau
    pradadāv agniputrāya vindhyaḥ pāriṣadāv ubhau
46 saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau
    pradadāv agniputrāya mahāpāriṣadāv ubhau
47 unmādaṃ puṣpadantaṃ ca śaṅkukarṇaṃ tathaiva ca
    pradadāv agniputrāya pārvatī śubhadarśanā
48 jayaṃ mahājayaṃ caiva nāgau jvalanasūnave
    pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ
49 evaṃ sākhyāś ca rudrāś ca vasavaḥ pitaras tathā
    sāgarāḥ saritaś caiva girayaś ca mahābalāḥ
50 daduḥ senāgaṇādhyakṣāñ śūlapaṭṭiśadhāriṇaḥ
    divyapraharaṇopetān nānāveṣavibhūṣitān

Shloka 51-75

51 śṛṇu nāmāni cānyeṣāṃ ye 'nye skandasya sainikāḥ
    vividhāyudhasaṃpannāś citrābharaṇa varmiṇaḥ
52 śaṅkukarṇo nikumbhaś ca padmaḥ kumuda eva ca
    ananto dvādaśa bhujas tathā kṛṣṇopakṛṣṇakau
53 droṇa śravāḥ kapiskandhaḥ kāñcanākṣo jalaṃ dhamaḥ
    akṣasaṃtarjano rājan kunadīkas tamo 'bhrakṛt
54 ekākṣo dvādaśākṣaś ca tathaivaika jaṭaḥ prabhuḥ
    sahasrabāhur vikaṭo vyāghrākṣaḥ kṣitikampanaḥ
55 puṇyanāmā sunāmā ca suvaktraḥ priyadarśanaḥ
    pariśrutaḥ koka nadaḥ priya mālyānulepanaḥ
56 ajodaro gajaśirāḥ skandhākṣaḥ śatalocanaḥ
    jvālā jihvaḥ karālaś ca sitakeśo jaṭī hariḥ
57 caturdaṃṣṭro 'ṣṭa jihvaś ca meghanādaḥ pṛthuśravāḥ
    vidyud akṣo dhanur vaktro jaṭharo mārutāśanaḥ
58 udarākṣo jhaṣākṣaś ca vajranābho vasu prabhaḥ
    samudravego rājendra śailakampī tathaiva ca
59 putra meṣaḥ pravāhaś ca tathā nandopanandakau
    dhūmraḥ śvetaḥ kaliṅgaś ca siddhārtho varadas tathā
60 priyakaś caiva nandaś ca gonandaś ca pratāpavān
    ānandaś ca pramodaś ca svastiko dhruvakas tathā
61 kṣemavāpaḥ sujātaś ca siddhayātraś ca bhārata
    govrajaḥ kanakāpīḍo mahāpāriṣadeśvaraḥ
62 gāyano hasanaś caiva bāṇaḥ khaḍgaś ca vīryavān
    vaitālī cātitālī ca tathā katika vātikau
63 haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaś ca ha
    raṇotkaṭaḥ prahāsaś ca śvetaśīrṣaś ca nandakaḥ
64 kālakaṇṭhaḥ prabhāsaś ca tathā kumbhāṇḍako 'paraḥ
    kālakākṣaḥ sitaś caiva bhūtalonmathanas tathā
65 yajñavāhaḥ pravāhaś ca deva yājī ca somapaḥ
    sajālaś ca mahātejāḥ kratha krāthau ca bhārata
66 tuhanaś ca tuhānaś ca citradevaś ca vīryavān
    madhuraḥ suprasādaś ca kirīṭī ca mahābalaḥ
67 vasavo madhuvarṇaś ca kalaśodara eva ca
    dhamanto manmathakaraḥ sūcīvaktraś ca vīryavān
68 śvetavaktraḥ suvaktraś ca cāru vaktraś ca pāṇḍuraḥ
    daṇḍabāhuḥ subāhuś ca rajaḥ kokilakas tathā
69 acalaḥ kanakākṣaś ca bālānām ayikaḥ prabhuḥ
    saṃcārakaḥ koka nado gṛdhravaktraś ca jambukaḥ
70 lohāśa vaktro jaṭharaḥ kumbhavaktraś ca kuṇḍakaḥ
    madgugrīvaś ca kṛṣṇaujā haṃsavaktraś ca candra bhāḥ
71 pāṇikūrmā ca śambūkaḥ pañcavaktraś ca śikṣakaḥ
    cāṣa vaktraś ca jambūkaḥ śākavaktraś ca kuṇḍakaḥ
72 yogayuktā mahātmānaḥ satataṃ brāhmaṇa priyāḥ
    paitāmahā mahātmāno mahāpāriṣadāś ca ha
    yauvanasthāś ca bālāś ca vṛddhāś ca janamejaya
73 sahasraśaḥ pāriṣadāḥ kumāram upatasthire
    vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya
74 kūrmakukkuṭavaktrāś ca śaśolūka mukhās tathā
    kharoṣṭravadanāś caiva varāhavadanās tathā
75 manuṣyameṣa vaktrāś ca sṛgālavadanās tathā
    bhīmā makara vaktrāś ca śiśumāra mukhās tathā

Shloka 76-110

76 mārjāraśaśavaktrāś ca dīrghavaktrāś ca bhārata
    nakulolūka vatrāś ca śvavāktrāś ca tathāpare
77 ākhu babhruka vaktraś ca mayūravadanās tathā
    matsyameṣānanāś cānye ajāvi mahiṣānanāḥ
78 ṛkṣaśārdūla vaktrāś ca dvīpisiṃhānanās tathā
    bhīmā gajānanāś caiva tathā nakramukhāḥ pare
79 garuḍānanāḥ khaḍgamukhā vṛkakākamukhās tathā
    gokharoṣṭra mukhāś cānye vṛṣadaṃśa mukhās tathā
80 mahājaṭhara pādāṅgās tārakākśāś ca bhārata
    pārāvata mukhāś cānye tathā vṛṣamukhāḥ pare
81 kokilā vadanāś cānye śyenatittirikānanāḥ
    kṛkalāsa mukhāś caiva virajo'mbaradhāriṇaḥ
82 vyālavaktrāḥ śūlamukhāś caṇḍavaktrāḥ śatānanāḥ
    āśīviṣāś cīradharā gonāsāvaraṇās tathā
83 sthūlodarāḥ kṛśāṅgāś ca sthūlāṅgaś ca kṛśodarāḥ
    hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ
84 gajendra carma vasanās tathā kṛṣṇājināmbarāḥ
    skandhe mukhā mahārāja tathā hy udarato mukhāḥ
85 pṛṣṭhe mukhā hanumukhās tathā jaṅghā mukhā api
    pārśvānanāś ca bahavo nānādeśamukhās tathā
86 tathā kīṭa pataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ
    nānāvyālamukhāś cānye bahu bāhuśiro dharāḥ
87 nānāvṛkṣabhujāḥ kec cit kaṭi śīrṣās tathāpare
    bhujaṃgabhoga vadanā nānāgulmanivāsinaḥ
88 cīrasaṃvṛta gātrāś ca tathā phalakavāsasaḥ
    nānāveṣadharāś caiva carma vāsasa eva ca
89 uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ
    kirīṭinaḥ pañca śikhās tathā kaṭhina mūrdhajāḥ
90 triśiṭhā dviśikhāś caiva tathā sapta śikhāḥ pare
    śikhaṇḍino mukuṭino muṇḍāś ca jaṭilās tathā
91 citramālyadharāḥ kec cit kec cid romānanās tathā
    divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ
92 kṛṣṇā nirmāṃsa vaktrāś ca dīrghapṛṣṭā nirūdarāḥ
    sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodara mehanāḥ
93 mahābhujā hrasvabhujā hrasvagātraś ca vāmanāḥ
    kubjāś ca dīrghajaṅghāś ca hastikarṇa śirodharāḥ
94 hastināsāḥ kūrmanāsā vṛkanāsās tathāpare
    dīrghauṣṭhā dīrghajihvāś ca vikarālā hy adhomukhāḥ
95 mahādaṃṣṭrā hrasvadaṃṣṭrāś caturdaṃṣṭrās tathāpare
    vāraṇendra nibhāś cānye bhīmā rājan sahasraśaḥ
96 suvibhaktaśarīrāś ca dīptimantaḥ svalaṃkṛtāḥ
    piṅgākṣāḥ śaṅkukarṇāś ca vakranāsāś ca bhārata
97 pṛthu daṃṣṭrāmahā daṃṣṭrāḥ sthūlauṣṭhā hari mūrdhajāḥ
    nānā pādauṣṭha daṃṣṭrāś ca nāhā hastaśiro dharāḥ
    nānā varmabhir ācchannā nānā bhāṣāś ca bhārata
98 kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ
    hṛṣṭāḥ paripatanti sma mahāpāriṣadās tathā
99 dīrghagrīvā dīrghanakhā dīrghapādaśiro bhujāḥ
    piṅgākṣā nīlakaṇṭhāś ca lambakarṇāś ca bhārata
100 vṛkodara nibhāś caiva ke cid añjanasaṃnibhāḥ
   śvetāṅgā lohitagrīvāḥ piṅgākṣāś ca tathāpare
   kalmāṣā bahavo rājaṃś citravarṇāś ca bhārata
101 cāmarāpīḍaka nibhāḥ śvetalohita rājayaḥ
   nānāvarṇāḥ savarṇāś ca mayūrasadṛśaprabhāḥ
102 punaḥ praharaṇāny eṣāṃ kīrtyamānāni me śṛṇu
   śeṣaiḥ kṛtaṃ pāriṣadair āyudhānāṃ parigraham
103 pāśodyata karāḥ ke cid vyāditāsyāḥ kharānanāḥ
   pṛthv akṣā nīlakaṇṭhāś ca tathā parighabāhavaḥ
104 śataghnī cakrahastāś ca tathā musalapāṇayaḥ
   śūlāsihastāś ca tathā mahākāyā mahābalāḥ
105 gadā bhuśuṇḍi hastāś ca tathā tomarapāṇayaḥ
   asi mudgarahastāś ca daṇḍahastāś ca bhārata
106 āyudhair vividhair ghorair mahātmāno mahājavāḥ
   mahābalā mahāvegā mahāpāriṣadās tathā
107 abhiṣekaṃ kumārasya dṛṣṭvā hṛṣṭā raṇapriyāḥ
   ghaṇṭājālapinaddhāṅgā nanṛtus te mahaujasaḥ
108 ete cānye ca bahavo mahāpāriṣadā nṛpa
   upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam
109 divyāś cāpy āntarikṣāś ca pārthivāś cānilopamāḥ
   vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan
110 tādṛśānāṃ sahasrāṇi prayutāny arbudāni ca
   abhiṣiktaṃ mahātmānaṃ parivāryopatasthire

Back to Shalya Parva, Mahabharata


Back to Books on Jat History

See also

Reference